वांछित मन्त्र चुनें

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् । अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥

अंग्रेज़ी लिप्यंतरण

amājuraś cid bhavatho yuvam bhago nāśoś cid avitārāpamasya cit | andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit ||

पद पाठ

अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् । अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥ १०.३९.३

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:3 | अष्टक:7» अध्याय:8» वर्ग:15» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे असत्यज्ञान और असत्य आचरण से रहित सद्वैद्यो ! या आग्नेय सोम्य पदार्थो ! (युवम्) तुम दोनों (अमाजुरः-भगं चित्) गृह में वर्त्तमान-गृहस्थजन के भजनीय शरीर की तथा (अनाशोः-अपमस्य चित्-अवितारा भवथः) भोजन करने में अशक्त और रक्तादिधातुक्षीण मनुष्य के रक्षक हो (अन्धस्य चित्-कृशस्य चित्-रुतस्य चित्) दृष्टिहीन के, दुर्बल के और रोगी के भी (युवां भिषजा-आहुः) तुम दोनों को विद्वान् लोग वैद्य कहते हैं ॥३॥
भावार्थभाषाः - राष्ट्र के अन्दर ऐसे कुशल ओषधिचिकित्सक और शल्यचिकित्सक वैद्य होने चाहिए, जो गृहस्थ में वर्तमान दम्पति के शरीर को स्वस्थ रख सकें तथा भोजन करने में असमर्थ, रक्तादि धातुक्षीण निर्बल मनुष्य, नेत्रहीन, कृश, और रोगी मनुष्य की रक्षा और चिकित्सा कर सकें। एवं आग्नेय सोम्य पदार्थ सूर्य की दो किरणें या विद्युत् की दो तरङ्गों द्वारा उनकी रक्षा की जा सके, ऐसे साधनों का आविष्कार करें ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे असत्यज्ञानाचरणरहितौ सद्वैद्यौ  ! “अश्विनौ सद्वैद्यौ” [संस्कारविधिः] अविनश्वराग्नेयसोम्यौ पदार्थौ “नासत्याभ्यां नित्याभ्यामग्निजलाभ्याम्” [ऋ० १।२०।३ दयानन्दः] (युवम्) युवाम् (अमाजुरः भगं चित्) गृहे वर्तमानस्य गृहस्थस्य भगस्य भजनीयस्य शरीरस्य ‘विभक्तिव्यत्ययः’ तथा (अनाशोः अपमस्य चित् अवितारा भवथः) अभोक्तुर्भोजनकरणेऽशक्तस्य रक्तादिधातुक्षीणस्यापि रक्षितारौ भवथः (अन्धस्य चित्-कृशस्य चित्-रुतस्य चित्-युवां भिषजा-आहुः) दृष्टिहीनस्यापि दुर्बलस्यापि रुग्णस्यापि “रुतस्य रुग्णस्य-अत्र पृषोदरादित्वात्-जलोपः [यजु० १६।४९ दयानन्दः] युवां वैद्यौ-वैद्यसमौ कथयन्ति विद्वांसः ॥३॥